|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.71. अध्यायः 071
Mahabharata - Vana Parva - Chapter Topics
ऋतुपर्णे कुण्डिनपुरं प्रविष्टे तद्रधघोषश्रवणेन दमयन्त्या तत्सारथौ नलसंभावना ॥ 1 ॥ ततस्तत्वजिज्ञासया नलंप्रति दूत्याः प्रस्थापनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-71-0x(1955)(18621)
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ 3-71-1(18622)
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥ 3-71-2(18623)
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ॥ 3-71-3(18624)
दमयन्ती तु शुश्राव रथघोषं नलस्य तम्।
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ 3-71-4(18625)
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्।
नलेन संगृहीतेषु पुरेव नलवाजिषु।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ 3-71-5(18626)
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ॥ 3-71-6(18627)
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा।
प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ॥ 3-71-7(18628)
दमयन्त्युवाच। 3-71-8x(1956)
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम्।
ममाह्लादयते चेतो नल एव महीपतिः ॥ 3-71-8(18629)
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ॥ 3-71-9(18630)
यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम्।
प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ॥ 3-71-10(18631)
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥ 3-71-11(18632)
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः।
नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः ॥ 3-71-12(18633)
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम्।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ 3-71-13(18634)
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः।
अहो नीचानुवर्ती च क्लीबवन्मम नैषध ॥ 3-71-14(18635)
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ 3-71-15(18636)
एवं विलपमाना सा नष्टसंज्ञेव भारत।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥ 3-71-16(18637)
ततो मध्यमकक्षायां ददर्श रथमास्थितम्।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥ 3-71-17(18638)
ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात्।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ 3-71-18(18639)
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः।
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥ 3-71-19(18640)
तं भीमः प्रतिजग्राह पूजया परया मुदा।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ॥ 3-71-20(18641)
स तत्र कुण्डिने रम्ये वसमानो महीपतिः।
न च किंचित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः।
स तु राज्ञा समागम्य विदर्भपतिना तदा ॥ 3-71-21(18642)
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ 3-71-22(18643)
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः।
राजानं राजपुत्रं वा न स्म पश्यति कंचन ॥ 3-71-23(18644)
नैव स्वयंवरकथां न च विप्रसमागमम्।
`न चान्यं कंचिदारम्भं स्वयंवरविधिं प्रति' ॥ 3-71-24(18645)
ततो विगणयद्राजा मनसा कोसलाधिपः।
आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ॥ 3-71-25(18646)
राजापि च स्मयन्भीमो मनसा समचिन्तयत्।
अधिकं योजनशतं तस्यागमनकारणम्।
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ॥ 3-71-26(18647)
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्।
पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति ॥ 3-71-27(18648)
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्।
विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ॥ 3-71-28(18649)
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥ 3-71-29(18650)
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे।
बाहुको रथमादाय रथशालामुपागमत् ॥ 3-71-30(18651)
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ 3-71-31(18652)
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम्।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ 3-71-32(18653)
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ 3-71-33(18654)
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता।
तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ॥ 3-71-34(18655)
कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा।
यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते ॥ 3-71-35(18656)
एवं सा तर्कयित्वा तु दमयन्ती विशांपते।
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥ 3-71-36(18657)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-71-3 नलाश्वाः विदर्भनगरे ये दमयन्त्याऽपत्याभ्यां सह प्रेषिताः ॥ 3-71-7 शिखिनो मयूराः ॥ 3-71-13 पर्युषितं प्रतिज्ञातकालातिलङ्घि ॥ 3-71-29 दिष्टं निर्दिष्टम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|